अविवेकः परमापदं पदं
अस्ति उज्जन्यां माधवः नाम विप्रः । एकदा तस्या भार्या स्वबालापत्यस्य रक्षार्थं तम् अवस्थाप्य स्नातुं गता । अथ ब्राह्मणः राज्ञा श्राद्धार्थं निमन्त्रितः । ब्राह्मणः सहजदारिद्र्यात् अचिन्तयत् - यदि सत्वरं न गच्छामि तर्हि अन्यः कश्चित् श्राद्धार्थं वृतः भवेत् । आदानस्य प्रदानस्य कर्तव्यस्य च कर्मण:। क्षिप्रमक्रियमाणस्य कालः पिबति तद्गसम्॥ किन्तु बालस्य अत्र रक्षकः नास्ति । तत् किं करोमि ? भवतु चिरकालपालितम् इमम् पुत्रनिर्विशेष॑ नकुलम् बालरक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गत: । ततस्तेन नकुलेन बालसमीपम् उपसर्पन् कृष्णसर्प: दृष्ट: । स तं व्यापाद्य खण्डशः कृतवान् । अत्रान्तरे ब्राह्मणो5पि श्राद्धं गृहीत्वा गृहम् उपावृत्त: । ब्राह्मणं दृष्टवा नकुल: रक््त-विलिप्त-मुख-पाद: तस्य चरणयो: अलुठतू । विप्र: तथाविधं तं दृष्टवा बालकोऽनेन खादित: इति अवधार्य कोपात् नकुलं व्यापादितवान् । अनन्तरं ...